अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं
ह्रदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरोः पादौमधुरौ
नृत्यं मधुरं सख्यं मधुरं महुराधिपतेरखिलं मधुरं

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं

गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं
ईष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं

गोपा मधुरा गावो मधुरा यष्टिमधुरा सृष्टिमधुरा
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं

इति श्रीमद वल्लभाचार्य विरचितं मधुराष्टकं संपूर्णम